सुन्दरकाण्डे सप्तमः सर्गः ॥५-७॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तमः सर्गः ॥५-७॥
स वेश्म जालम् बलवान् ददर्श । व्यासक्त वैदूर्य सुवर्ण जालम् । यथा महत् प्राव्Rषि मेघ जालम् । विद्युत् पिनद्धम् सविहम्ग जालम् ॥५-७-१॥ निवेशनानाम् विविधाः च शालाः । प्रधान शन्ख आयुध चाप शालाः । मनो हराः च अपि पुनर् विशाला । ददर्श वेश्म अद्रिषु चन्द्र शालाः ॥५-७-२॥ गृहाणि नाना वसु राजितानि । देव असुरैः च अपि सुपूजितानि । सर्वैः च दोषैः परिवर्जितानि । कपिर् ददर्श स्व बल अर्जितानि ॥५-७-३॥ तानि प्रयत्न अभिसमाहितानि । मयेन साक्षाद् इव निर्मितानि । मही तले सर्व गुण उत्तराणि । ददर्श लन्का अधिपतेर् ग्Rहाणि ॥५-७-४॥ ततो ददर्श उच्च्रित मेघ रूपम् । मनो हरम् कान्चन चारु रूपम् । रक्षो अधिपस्य आत्म बल अनुरूपम् । गृह उत्तमम् हि अप्रतिरूप रूपम् ॥५-७-५॥ मही तले स्वर्गम् इव प्रकीर्णम् । श्रिया ज्वलन्तम् बहु रत्न कीर्णम् । नाना तरूणाम् कुसुम अवकीर्णम् । गिरेर् इव अग्रम् रजसा अवकीर्णम् ॥५-७-६॥ नारी प्रवेकैर् इव दीप्यमानम् । तडिद्भिर् अम्भोदवद् अर्च्यमानम् । हम्स प्रवेकैर् इव वाह्यमानम् । श्रिया युतम् खे सुक्Rताम् विमानम् ॥५-७-७॥ यथा नग अग्रम् बहु धातु चित्रम् । यथा नभः च ग्रह चन्द्र चित्रम् । ददर्श युक्ती कृत मेघ चित्रम् । विमान रत्नम् बहु रत्न चित्रम् ॥५-७-८॥ मही कृता पर्वत राजि पूर्णा । शैलाः कृता वृक्ष वितान पूर्णाः । वृक्षाः क्Rताः पुष्प वितान पूर्णाः । पुष्पम् क्Rतम् केसर पत्र पूर्णम् ॥५-७-९॥ कृतानि वेश्मानि च पाण्डुराणि । तथा सुपुष्पा अपि पुष्करिण्यः । पुनः च पद्मानि सकेसराणि । धन्यानि चित्राणि तथा वनानि ॥५-७-१०॥ पुष्प आह्वयम् नाम विराजमानम् । रत्न प्रभाभिः च विवर्धमानम् । वेश्म उत्तमानाम् अपि च उच्च मानम् । महा कपिः तत्र महा विमानम् ॥५-७-११॥ कृताः च वैदूर्यमया विहम्गा । रूप्य प्रवालैः च तथा विहम्गाः । चित्राः च नाना वसुभिर् भुजम्गा । जात्या अनुरूपाः तुरगाः शुभ अन्गाः ॥५-७-१२॥ प्रवाल जाम्बूनद पुष्प पक्षाः । सलीलम् आवर्जित जिह्म पक्षाः । कामस्य साक्षाद् इव भान्ति पक्षाः । कृता विहम्गाः सुमुखाः सुपक्षाः ॥५-७-१३॥ नियुज्यमानाः च गजाः सुहस्ताः । सकेसराः च उत्पल पत्र हस्ताः । बभूव देवी च कृता सुहस्ता । लक्ष्मीः तथा पद्मिनि पद्म हस्ता ॥५-७-१४॥ इति इव तद् ग्Rहम् अभिगम्य शोभनम् । सविस्मयो नगम् इव चारु शोभनम् । पुनः च तत् परम सुगन्धि सुन्दरम् । हिम अत्यये नगम् इव चारु कन्दरम् ॥५-७-१५॥ ततः स ताम् कपिर् अभिपत्य पूजिताम् । चरन् पुरीम् दश मुख बाहु पालिताम् । अदृश्य ताम् जनक सुताम् सुपूजिताम् । सुदुह्खिताम् पति गुण वेग निर्जिताम् ॥५-७-१६॥ ततः तदा बहु विध भावित आत्मनः । कृत आत्मनो जनक सुताम् सुवर्त्मनः । अपश्यतो अभवद् अतिदुह्खितम् मनः । सुचक्षुषः प्रविचरतो महात्मनः ॥५-७-१७॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे सप्तमः सर्गः ॥५-७॥
