सुन्दरकाण्डे पञ्चदशः सर्गः ॥५-१५॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चदशः सर्गः ॥५-१५॥
स वीक्षमाणः तत्रस्थो मार्गमाणः च मैथिलीम् । अवेक्षमाणः च महीम् सर्वाम् ताम् अन्ववैक्षत ॥५-१५-१॥ सन्तान कलताभिः च पादपैर् उपशोभिताम् । दिव्य गन्ध रस उपेताम् सर्वतः समलम्कृताम् ॥५-१५-२॥ ताम् स नन्दन सम्काशाम् मृग पक्षिभिर् आवृताम् । हर्म्य प्रासाद सम्बाधाम् कोकिल आकुल निह्स्वनाम् ॥५-१५-३॥ कान्चन उत्पल पद्माभिः वापीभिः उपशोभिताम् । बह्व आसन कुथा उपेताम् बहु भूमि गृह आयुताम् ॥५-१५-४॥ सर्व ऋतु कुसुमैः रम्यैः फलवद्भिः च पादपैः । पुष्पितानाम् अशोकानाम् श्रिया सूर्य उदय प्रभाम् ॥५-१५-५॥ प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत । निष्पत्र शाखाम् विहगैः क्रियमाणाम् इव असकृत् ॥५-१५-६॥ विनिष्पतद्भिः शतशः चित्रैः पुष्प अवतम्सकैः । आमूल पुष्प निचितैर् अशोकैः शोक नाशनैः ॥५-१५-७॥ पुष्प भार अतिभारैः च स्पृशद्भिर् इव मेदिनीम् । कर्णिकारैः कुसुमितैः किम्शुकैः च सुपुष्पितैः ॥५-१५-८॥ स देशः प्रभया तेषाम् प्रदीप्त इव सर्वतः । पुम्नागाः सप्त पर्णाः च चम्पक उद्दालकाः तथा ॥५-१५-९॥ विवृद्ध मूला बहवः शोभन्ते स्म सुपुष्पिताः । शात कुम्भ निभाः केचित् केचिद् अग्नि शिख उपमाः ॥५-१५-१०॥ नील अन्जन निभाः केचित् तत्र अशोकाः सहस्रशः । नन्दनम् विविध उद्यानम् चित्रम् चैत्ररथम् यथा ॥५-१५-११॥ अतिवृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम् । द्वितीयम् इव च आकाशम् पुष्प ज्योतिर् गण आयुतम् ॥५-१५-१२॥ पुष्प रत्न शतैः चित्रम् पन्चमम् सागरम् यथा । सर्व ऋतु पुष्पैर् निचितम् पादपैर् मधु गन्धिभिः ॥५-१५-१३॥ नाना निनादैः उद्यानम् रम्यम् मृग गणैर् द्विजैः । अनेक गन्ध प्रवहम् पुण्य गन्धम् मनो रमम् ॥५-१५-१४॥ शैल इन्द्रम् इव गन्ध आढ्यम् द्वितीयम् गन्ध मादनम् । अशोक वनिकायाम् तु तस्याम् वानर पुम्गवः ॥५-१५-१५॥ स ददर्श अविदूरस्थम् चैत्य प्रासादम् ऊर्जितम् । मध्ये स्तम्भ सहस्रेण स्थितम् कैलास पाण्डुरम् ॥५-१५-१६॥ प्रवाल कृत सोपानम् तप्त कान्चन वेदिकम् । मुष्णन्तम् इव चक्षूम्षि द्योतमानम् इव श्रिया ॥५-१५-१७॥ विमलम् प्राम्शु भावत्वाद् उल्लिखन्तम् इव अम्बरम् । ततो मलिन सम्वीताम् राक्षसीभिः समावृताम् ॥५-१५-१८॥ उपवास कृशाम् दीनाम् निह्श्वसन्तीम् पुनः पुनः । ददर्श शुक्ल पक्ष आदौ चन्द्र रेखाम् इव अमलाम् ॥५-१५-१९॥ मन्द प्रख्यायमानेन रूपेण रुचिर प्रभाम् । पिनद्धाम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-२०॥ पीतेन एकेन सम्वीताम् क्लिष्टेन उत्तम वाससा । सपन्काम् अनलम्काराम् विपद्माम् इव पद्मिनीम् ॥५-१५-२१॥ व्रीडिताम् दुह्ख सम्तप्ताम् परिम्लानाम् तपस्विनीम् । ग्रहेण अन्गारकेण एव पीडिताम् इव रोहिणीम् ॥५-१५-२२॥ अश्रु पूर्ण मुखीम् दीनाम् कृशाम् अननशेन च । शोक ध्यान पराम् दीनाम् नित्यम् दुह्ख परायणाम् ॥५-१५-२३॥ प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी गणम् । स्व गणेन मृगीम् हीनाम् श्व गण अभिवृताम् इव ॥५-१५-२४॥ नील नाग आभया वेण्या जघनम् गतया एकया । नीलया नीरदापाये वनराज्या महीमिव ॥५-१५-२५॥ सुख अर्हाम् दुह्ख सम्तप्ताम् व्यसनानाम् अकोदिवाम् । ताम् समीक्ष्य विशाल अक्षीम् अधिकम् मलिनाम् कृशाम् ॥५-१५-२६॥ तर्कयाम् आस सीता इति कारणैः उपपादिभिः । ह्रियमाणा तदा तेन रक्षसा काम रूपिणा ॥५-१५-२७॥ यथा रूपा हि दृष्टा वै तथा रूपा इयम् अन्गना । पूर्ण चन्द्र आननाम् सुभ्रूम् चारु वृत्त पयो धराम् ॥५-१५-२८॥ कुर्वन्तीम् प्रभया देवीम् सर्वा वितिमिरा दिशः । ताम् नील केशीम् बिम्ब ओष्ठीम् सुमध्याम् सुप्रतिष्ठिताम् ॥५-१५-२९॥ सीताम् पद्म पलाश अक्षीम् मन्मथस्य रतिम् यथा । इष्टाम् सर्वस्य जगतः पूर्ण चन्द्र प्रभाम् इव ॥५-१५-३०॥ भूमौ सुतनुम् आसीनाम् नियताम् इव तापसीम् । निःश्वास बहुलाम् भीरुम् भुजग इन्द्र वधूम् इव ॥५-१५-३१॥ शोक जालेन महता विततेन न राजतीम् । सम्सक्ताम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-३२॥ ताम् स्मृतीम् इव सम्दिघ्दाम् ऋद्धिम् निपतिताम् इव । विहताम् इव च श्रद्धाम् आशाम् प्रतिहताम् इव ॥५-१५-३३॥ स उपसर्गाम् यथा सिद्धिम् बुद्धिम् सकलुषाम् इव । अभूतेन अपवादेन कीर्तिम् निपतिताम् इव ॥५-१५-३४॥ राम उपरोध व्यथिताम् रक्षो हरण कर्शिताम् । अबलाम् मृग शाव अक्षीम् वीक्षमाणाम् ततः ततः ॥५-१५-३५॥ बाष्प अम्बु प्रतिपूर्णेन कृष्ण वक्त्र अक्षि पक्ष्मणा । वदनेन अप्रसन्नेन निह्श्वसन्तीम् पुनः पुनः ॥५-१५-३६॥ मल पन्क धराम् दीनाम् मण्डन अर्हाम् अमण्डिताम् । प्रभाम् नक्षत्र राजस्य काल मेघैः इव आवृताम् ॥५-१५-३७॥ तस्य सम्दिदिहे बुद्धिः मुहुः सीताम् निरीक्ष्य तु । आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव ॥५-१५-३८॥ दुह्खेन बुबुधे सीताम् हनुमान् अनलम्कृताम् । सम्स्कारेण यथा हीनाम् वाचम् अर्थ अन्तरम् गताम् ॥५-१५-३९॥ ताम् समीक्ष्य विशाल अक्षीम् राज पुत्रीम् अनिन्दिताम् । तर्कयाम् आस सीता इति कारणैः उपपादयन् ॥५-१५-४०॥ वैदेह्या यानि च अन्गेषु तदा रामो अन्वकीर्तयत् । तानि आभरण जालानि गात्र शोभीनि अलक्षयत् ॥५-१५-४१॥ सुकृतौ कर्ण वेष्टौ च श्व दम्ष्ट्रौ च सुसम्स्थितौ । मणि विद्रुम चित्राणि हस्तेष्व् आभरणानि च ॥५-१५-४२॥ श्यामानि चिर युक्तत्वात् तथा सम्स्थानवन्ति च । तानि एव एतानि मन्ये अहम् यानि रामो अन्वकीर्तयत् ॥५-१५-४३॥ तत्र यानि अवहीनानि तानि अहम् न उपलक्षये । यानि अस्या न अवहीनानि तानि इमानि न सम्शयः ॥५-१५-४४॥ पीतम् कनक पट्ट आभम् स्रस्तम् तद् वसनम् शुभम् । उत्तरीयम् नग आसक्तम् तदा दृष्टम् प्लवम् गमैः ॥५-१५-४५॥ भूषणानि च मुख्यानि दृष्टानि धरणी तले । अनया एव अपविद्धानि स्वनवन्ति महान्ति च ॥५-१५-४६॥ इदम् चिर गृहीतत्वाद् वसनम् क्लिष्टवत्तरम् । तथा हि नूनम् तद् वर्णम् तथा श्रीमद् यथा इतरत् ॥५-१५-४७॥ इयम् कनक वर्ण अन्गी रामस्य महिषी प्रिया । प्रनष्टा अपि सती यस्य मनसो न प्रणश्यति ॥५-१५-४८॥ इयम् सा यत् कृते रामः चतुर्भिः परितप्यते । कारुण्येन आनृशम्स्येन शोकेन मदनेन च ॥५-१५-४९॥ स्त्री प्रनष्टा इति कारुण्याद् आश्रिता इति आनृशम्स्यतः । पत्नी नष्टा इति शोकेन प्रियेति मदनेन च ॥५-१५-५०॥ अस्या देव्या यथा रूपम् अन्ग प्रत्यन्ग सौष्ठवम् । रामस्य च यथा रूपम् तस्य इयम् असित ईक्षणा ॥५-१५-५१॥ अस्या देव्या मनः तस्मिमः तस्य च अस्याम् प्रतिष्ठितम् । तेन इयम् स च धर्म आत्मा मुहूर्तम् अपि जीवति ॥५-१५-५२॥ दुष्करम् कुरुते रामो इमाम् मत्त काशिनीम् । सीताम् विना महा बाहुः मुहूर्तम् अपि जीवति ॥५-१५-५३॥ एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन सम्भवः । जगाम मनसा रामम् प्रशशम्स च तम् प्रभुम् ॥५-१५-५४॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे पञ्चदशः सर्गः ॥५-१५॥
