युद्धकाण्डे प्रथमः सर्गः ॥६-१॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे प्रथमः सर्गः ॥६-१॥
श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥ कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् । मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥ न हि तम् परिपश्यामि यस्तरेत महोदधिम् । अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥ देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् । अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥ प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् । को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥ यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः । भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥ एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च । यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥ कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् । यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥ भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् । नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥ भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् । तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥ न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः । अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥ वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः । इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥ यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् । एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥ मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः । इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥ हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् । ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥ हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः । सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥ सागरम् तु समासाद्य पुनर्नष्टम् मनो मम । कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥ हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् । यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥ समुद्रपारगमने हरीणाम् किमिहोत्तरम् । इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥ हनूमन्तम् महाबाहुस्ततो ध्यानमुपागमत् ।
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे प्रथमः सर्गः ॥६-१॥
