युद्धकाण्डे पञ्चविंशः सर्गः ॥६-२५॥

From Spiritual India

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चविंशः सर्गः ॥६-२५॥

सबले सागरम् तीर्णे रामे दशरथ आत्मजे ।
अमात्यौ रावणः श्रीमान् अब्रवीत् शुक सारणौ ॥६-२५-१॥

समग्रम् सागरम् तीर्णम् दुस्तरम् वानरम् बलम् ।
अभूत पूर्वम् रामेण सागरे सेतु बन्धनम् ॥६-२५-२॥

सागरे सेतु बन्धम् तु न श्रद्दध्याम् कथम्चन ।
अवश्यम् च अपि सम्ख्येयम् तन् मया वानरम् बलम् ॥६-२५-३॥

भवन्तौ वानरम् सैन्यम् प्रविश्य अनुपलक्षितौ ।
परिमाणम् च वीर्यम् च ये च मुख्याः प्लवम् गमाः ॥६-२५-४॥

मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः ।
ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवम् गमाः ॥६-२५-५॥

स च सेतुर् यथा बद्धः सागरे सलिल अर्णवे ।
निवेशः च यथा तेषाम् वानराणाम् महात्मनाम् ॥६-२५-६॥

रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च ।
लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ ॥६-२५-७॥

कः च सेना पतिस् तेषाम् वानराणाम् महाओजसाम् ।
एतज् ज्ञात्वा यथा तत्त्वम् शीघ्रम् अगन्तुम् अर्हथः ॥६-२५-८॥

इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ ।
हरि रूप धरौ वीरौ प्रविष्टौ वानरम् बलम् ॥६-२५-९॥

ततस् तद् वानरम् सैन्यम् अचिन्त्यम् लोम हर्षणम् ।
सम्ख्यातुम् न अध्यगच्चेताम् तदा तौ शुक सारणौ ॥६-२५-१०॥

तत् स्थितम् पर्वत अग्रेषु निर्दरेषु गुहासु च ।
समुद्रस्य च तीरेषु वनेषु उपवनेषु च ॥६-२५-११॥

तरमाणम् च तीर्णम् च तर्तु कामम् च सर्वशः ।
निविष्टम् निविशच् चैव भीम नादम् महाबलम् ॥६-२५-१२॥

तद्बलार्णवमक्षोभ्यम् ददृशाते निशाचरौ ।
तौ ददर्श महातेजाः प्रच्चन्नौ च विभीषणः ॥६-२५-१३॥

आचचक्षे अथ रामाय गृहीत्वा शुक सारणौ ।
तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुक्सारणौ ॥६-२५-१४॥

लंकायाः समनुप्राप्तौ चारौ पर पुरम् जयौ ।
तौ दृष्ट्वा व्यथितौ रामम् निराशौ जीविते तदा ॥६-२५-१५॥

कृत अन्जलि पुटौ भीतौ वचनम् च इदम् ऊचतुः ।
आवाम् इह आगतौ सौम्य रावण प्रहिताव् उभौ ॥६-२५-१६॥

परिज्ञातुम् बलम् कृत्स्नम् तव इदम् रघु नन्दन ।
तयोस् तद् वचनम् श्रुत्वा रामो दशरथ आत्मजः ॥६-२५-१७॥

अब्रवीत् प्रहसन् वाक्यम् सर्व भूत हिते रतः ।
यदि दृष्टम् बलम् कृत्स्नम् वयम् वा सुसमीक्षिताः ॥६-२५-१८॥

यथा उक्तम् वा कृतम् कार्यम् चन्दतः प्रतिगम्यताम् ।
अथ किम्चिददृष्टम् वा भूयस्तद्द्रष्टुमर्हथः ॥६-२५-१९॥

विभीषनो वा कार्त्स्न्येन पुनः सम्दर्शयिष्यति ।
न चेदम् ग्रहम् णम् प्रप्य भेतव्यम् जीवितम् प्रति ॥६-२५-२०॥

व्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हतः ।
प्रच्चन्नौ च विमुञ्चएमौ चारौ रात्रिम्च रावुभौ ॥६-२५-२१॥

शत्रुपक्षस्य सततम् विभीषण विकर्षिणौ ।
प्रविश्य नगरीम् लंकाम् भवद्भ्याम् धनद अनुजः ॥६-२५-२२॥

वक्तव्यो रक्षसाम् राजा यथा उक्तम् वचनम् मम ।
यद् बलम् च समाश्रित्य सीताम् मे हृतवान् असि ॥६-२५-२३॥

तद् दर्शय यथा कामम् ससैन्यः सह बान्धवः ।
श्वः काले नगरीम् लंकाम् सप्राकाराम् सतोरणाम् ॥६-२५-२४॥

राक्षसम् च बलम् पश्य शरैर् विध्वम्सितम् मया ।
खोधम् भीममहम् मोक्ष्ये बलम् धारय रावण ॥६-२५-२५॥

श्वः काले वज्रवान् वज्रम् दानवेष्व् इव वासवः ।
इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ ॥६-२५-२६॥

जयेति प्रतिनन्द्यैनम् राघवम् धर्मवत्सलम् ।
आगम्य नगरीम् लंकाम् अब्रूताम् राक्षस अधिपम् ॥६-२५-२७॥

विभीषण गृहीतौ तु वध अर्हौ राक्षस ईश्वर ।
दृष्ट्वा धर्म आत्मना मुक्तौ रामेण अमित तेजसा ॥६-२५-२८॥

एक स्थान गता यत्र चत्वारः पुरुष ऋषभाः ।
लोक पाल उपमाः शूराः कृत अस्त्रा दृढ विक्रमाः ॥६-२५-२९॥

रामो दाशरथिः श्रीमाम्ल् लक्ष्मणः च विभीषणः ।
सुग्रीवः च महातेजा महाइन्द्र सम विक्रमः ॥६-२५-३०॥

एते शक्ताः पुरीम् लंकाम् सप्राकाराम् सतोरणाम् ।
उत्पाट्य सम्क्रामयितुम् सर्वे तिष्ठन्तु वानराः ॥६-२५-३१॥

यादृशम् तस्य रामस्य रूपम् प्रहरणानि च ।
वधिष्यति पुरीम् लंकाम् एकस् तिष्ठन्तु ते त्रयः ॥६-२५-३२॥

राम लक्ष्मण गुप्ता सा सुग्रीवेण च वाहिनी ।
बभूव दुर्धर्षतरा सर्वैर् अपि सुर असुरैः ॥६-२५-३३॥

प्रहृष्ट रूपा ध्वजिनी वन ओकसाम् ।
वनौकसाम् सम्प्रति योद्धुम् इच्चताम् ।
अलम् विरोधेन शमो विधीयताम् ।
प्रदीयताम् दाशरथाय मैथिली ॥६-२५-३४॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे पञ्चविंशः सर्गः ॥६-२५॥

Personal tools