युद्धकाण्डे पञ्चदशः सर्गः ॥६-१५॥

From Spiritual India

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चदशः सर्गः ॥६-१५॥

बृहस्पतेस्तुल्यमतेर्वचस्त ।
न्निशम्य यत्नेन विभीषणस्य ।
ततो महात्मा वचनम् बभाषे ।
तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥६-१५-१॥

किम् नाम ते तात कनिष्ठ वाक्य ।
मन्र्थकम् वै बहुभीतवच्च ।
अस्मिन् कुले योऽपि  भवेन्न जातः ।
सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥

सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च ।
एकः कुलेऽस्मिन् पुरुषो विमुक्तो ।
विभीषणस्तातकनिष्ठ एषः ॥६-१५-३॥

किम् नाम तौ मानुषराजपुत्रा ।
वस्माकमेकेन हि राक्षसेन ।
सुप्राकृतेनापि निहन्तुमेतौ ।
शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥

त्रिलोकनाथो नम देवराजः ।
शक्तो मया भूमितले विविष्टः ।
भयार्मिताश्चापि दिशः प्रपन्नाः ।
सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥

ऐरावतो विस्वरमुन्नदन् स ।
निपातितो भूमितले मया तु ।
विकृष्य दन्तौ तु मया प्रपह्य ।
वित्रासिता देवगणाः समग्राः ॥६-१५-६॥

सोऽहम् सुराणामपि दर्पहन्ता ।
दैत्योत्तमानामपि शोककर्ता ।
कथम् नरेन्द्रत्मजयोर्न शक्तो ।
ममष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥

अथेन्द्रकल्पस्य दुरासदस्य ।
महाजसस्तद्वचनम् निशम्य ।
ततो महार्थम् वचनम् बभाषे ।
विभीषणः शस्त्रभृताम् वरिष्ठः ॥६-१५-८॥

न तात मन्त्रे तव निश्चयोऽस्ति ।
बालस्त्वमद्याप्यविपक्वबुद्धिः ।
तस्मात्त्वयाप्यात्मविनाशनाय ।
वचोऽर्थ्हीनम् बहु विप्रलप्तम् ॥६-१५-९॥

पुत्रप्रवादेन तु रावणस्य ।
त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।
यस्येदृशम् राघवतो विनाशम् ।
विशम्य मोहादनुवन्यसे त्वम् ॥६-१५-१०॥

त्वमेव वध्यश्च सुदुर्मतिश्च ।
स चापि वध्यो य ऐहानयत्त्वाम् ।
बालम् दृढम् साहासिकम् च योऽद्य ।
प्रावेशयन्मन्त्रक्R^ताम् समीपम् ॥६-१५-११॥

मूढोऽप्रगल्भोऽविनयोपपन्न ।
स्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।
मूर्खस्त्वमत्यन्तसुदुर्मतिश्च ।
त्वमिन्द्रजिद्बालतया ब्रवीषि ॥६-१५-१२॥

को ब्रह्मदण्डप्रतिमप्रकाशा ।
नर्चिष्मतः कालनिकाशरूपान् ।
सहेत बाणान्यमदण्डकल्पा ।
न्समक्षमुक्तान्युधि राघवेण ॥६-१५-१३॥

धनानि रत्नानि सुभूषणानि ।
वापाम्पि दिव्यानि मणीम्श्च चित्रान् ।
सीताम् च रामाय निवेद्य देवीम् ।
वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे पञ्चदशः सर्गः ॥६-१५॥

Personal tools