युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥
राघवेन अभये दत्ते सम्नतो रावण अनुजः । विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥ खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह । स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥ पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः । अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥ धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् । अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥ भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः । परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥ भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च । तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥ वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव । आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥ एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा । रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥ अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् । राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥ रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् । कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥ राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः । कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥ बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि । धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥ सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् । अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥ महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः । अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥ दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् । माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥ स तैस्तु सहितो राजा लोकपालानयोधयत् । सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥ विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः । अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥ यानि कर्मापदानानि रावणस्य विभीषण । अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥ अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् । राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥ रसातलम् वा प्रविशेत्पातालम् वापि रावणः । पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥ अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् । अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥ श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः । शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥ राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे । करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥ इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् । अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥ तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् । राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥ एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् । मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥ तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः । प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥ अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् । कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥ सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् । उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥ तराम तरसा सर्वे ससैन्या वरुण आलयम् । एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥ समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति । खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥ कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः । एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥ आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः । ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥ सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् । प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥ स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् । सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥ विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते । सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥ उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् । एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥ समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः । किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥ विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् । अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥ लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः । विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥ अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् । यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥ एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः । सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥
