युद्धकाण्डे एकादशः सर्गः ॥६-११॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकादशः सर्गः ॥६-११॥
स बभुव कृशो राजा मैथिलीकाममोहितः । असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥ अतीतसमये काले तस्मिन्वे युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥ स हेमजालविततम् मणिविद्रुमभूषितम् । उपगम्य विनीताश्वमारुरोह महार्थम् ॥६-११-३॥ तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् । प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥ असिचर्मधरा योधाः सर्वायुधधरास्ततः । राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥६-११-५॥ नानाविकृतवेषाश्च नानाभूषणभूषिताः । पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥ रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः । अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥ गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥६-११-८॥ ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् । तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥ स नेमिघोषेण महान्सहसाभिनिनादयन् । राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥ विमलम् चातपत्रम् च पगृहीतमशोभत । पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥ हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे । चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥६-११-१२॥ ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः । राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥ राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः । अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥ सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् । विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥६-११-१५॥ ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् । प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥ तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् । महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥ ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् । समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥ कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः । राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥ अनुगेहमवस्थय विहारशयनेषु च । उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥ ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् । नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२१॥ सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥६-११-२२॥ ते वाहनान्यवस्थाप्य यानानि विविधानि च । सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥ राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥ ते समेत्य सभायाम् वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥६-११-२५॥ मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः । अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥ समीयुस्तत्र शतशः शूराश्च बहवस्तथा । सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥ ततो महात्मा विपुलम् सुयुग्यम् । रथम् वरम् हेमविचित्रिताङ्गम् । शुभम् समास्थाय ययौ यशस्वी । विभीषणः सम्सदमग्रजस्य ॥६-११-२८॥ स पूर्वजायावरजः शशम्स । ना माथ पश्चाच्चरणौ ववन्दे । शुकः प्रहस्तश्च तथैव तेभ्यो । ददौ यथार्हम् प्R^थगासनानि ॥६-११-२९॥ सुवर्णनानामणिभुषणानाम् । सुवाससाम् सम्सदि राक्षसानाम् । तेषाम् परार्थ्यगुरुचन्दनानाम् । स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥ न चुक्रुशुर्नानृतमाह कश्चि । त्सभासदो नापि जजल्पुरुच्चैः । सम्सिद्धार्थः सर्व एवोग्रवीर्या । भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥ स रावणः शस्त्रभृताम् मनस्विनाम् । महाबलानाम् समितौ मनस्वी । तप्याम् सभायाम् प्रभया चकाशे । मध्ये वसूनामिव वज्रहस्तः ॥६-११-३२॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकादशः सर्गः ॥६-११॥
