बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥

From Spiritual India

Jump to: navigation, search

श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥

गते रामे प्रशांत आत्मा रामो दाशरथिः धनुः ।
वरुणाय अप्रमेयाय ददौ हस्ते महायशाः ॥१-७७-१॥

अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् ।
पितरम् विह्वलम् दृष्ट्वा प्रोवाच रघुनंदनः ॥१-७७-२॥

जामदग्न्यो गतो रामः प्रयातु चतुर् अन्गिणी ।
अयोध्या अभिमुखी सेना त्वया नाथेन पालिता ॥१-७७-३॥

रामस्य वचनम् श्रुत्वा राजा दशरथः सुतम् ।
बाहुभ्याम् सम्परिष्वज्य मूर्ध्नि उपाघ्राय राघवम् ॥१-७७-४॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
पुनर्जातम् तदा मेने पुत्रम् आत्मानम् एव च ॥१-७७-५॥

चोदयामास ताम् सेनाम् जगाम आशु ततः पुरीम् ।
पताका ध्वजिनीम् रम्याम् तूर्य उद् घुष्ट निनादिताम् ॥१-७७-६॥
सिक्त राज पथा रम्याम् प्रकीर्ण कुसुम उत्कराम् ।
राज प्रवेश सुमुखैः पौरैः मंगल पाणिभिः ॥१-७७-७॥
सम्पूर्णाम् प्राविशत् राजा जन ओघैः समलम्कृताम् ।

पौरैः प्रति उद्गतो दूरम् द्विजैः च पुर वासिभिः ॥१-७७-८॥
पुत्रैः अनुगतः श्रीमान् श्रीमद्भिः च महायशाः ।
प्रविवेश गृहम् राजा हिमवत् सदृशम् प्रियम् ॥१-७७-९॥

ननन्द स्वजनैः राजा गृहे कामैः सुपूजितः ।
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१-७७-१०॥
वधू प्रतिग्रहे युक्ता याः च अन्या राज योषितः ।

ततः सीताम् महाभागाम् ऊर्मिलाम् च यशस्विनीम् ॥१-७७-११॥
कुशध्वज सुते च उभे जगृहुः नृप योषितः ।

मंगल आलापनैः होमैः शोभिताः क्षौम वाससः ॥१-७७-१२॥
देवत आयतनानि आशु सर्वाः ताः प्रत्यपूजयन् ।

अभिवाद्य अभिवाद्यान् च सर्वा राज सुताः तदा ॥१-७७-१३॥
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।

कृत दाराः कृत अस्त्राः च स धनाः स सुहृत् जनाः ॥१-७७-१४॥
शुश्रूषमाणाः पितरम् वर्तयन्ति नरर्षभाः ।

कस्यचित् अथ कालस्य राजा दशरधः सुतम् ॥१-७७-१५॥
भरतम् कैकेयी पुत्रम् अब्रवीत् रघुनंदन ।

अयम् केकय राजस्य पुत्रो वसति पुत्रक ॥१-७७-१६॥
त्वाम् नेतुम् आगतो वीरो युधाजित् मातुलः तव ।

श्रुत्वा दशरथस्य एतत् भरतः कैकेयि सुतः ॥१-७७-१७॥
गमनाय अभिचक्राम शत्रुघ्न सहितः तदा ।

आपृच्छ्य पितरम् शूरो रामम् च अक्लिष्ट कर्मणम् ॥१-७७-१८॥
मातॄः च अपि नरश्रेष्ट शत्रुघ्न सहितो ययौ ।

युधाजित् प्राप्य भरतम् स शत्रुघ्नम् प्रहर्षितः ॥१-७७-१९॥
स्व पुरम् प्रविवेशत् वीरः पिता तस्य तुतोष ह ।

गते च भरते रामो लक्ष्मणः च महाबलः ॥१-७७-२०॥
पितरम् देव संकाशम् पूजयामासतुः तदा ।

पितुः आज्ञाम् पुरस्कृत्य पौर कार्याणि सर्वशः ॥१-७७-२१॥
चकार रामः सर्वाणि प्रियाणि च हितानि च ।
मातृभ्यो मातृ कार्याणि कृत्वा परम यंत्रितः ॥१-७७-२२॥
गुरूणाम् गुरु कार्याणि काले काले अन्ववैक्षत ।

एवम् दशरथः प्रीतो ब्राह्मणा नैगमाः तथा ॥१-७७-२३॥
रामस्य शील वृत्तेन सर्वम् विषय वासिनः ।
तेषाम् अति यशा लोके रामः सत्य पराक्रमः ॥१-७७-२४॥
स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः ।

रामः च सीतया सार्धम् विजहार बहून् ऋतून् ॥१-७७-२५॥
मनस्वी तद् गतमानस्य तस्या हृदि समर्पितः ।

प्रिया तु सीता रामस्य दाराः पितृ कृता इति ॥१-७७-२६॥
गुणात् रूप गुणात् च अपि प्रीतिः भूयो अभिवर्धते ।

तस्याः च भर्ता द्विगुणम् हृदये परिवर्तते ॥१-७७-२७॥
अन्तर् गतम् अपि व्यक्तम् आख्याति हृदयम् हृदा ।

तस्य भूयो विशेषेण मैथिली जनक आत्मजा ।
देवताभिः समा रूपे सीता श्रीः इव रूपिणी ॥१-७७-२८॥

तया स राज ऋषि सुतो अभिकामया
समेयिवान् उत्तम राज कन्यया ।
अतीव रामः शुशुभे मुदा अन्वितो
विभुः श्रिया विष्णुः इव अमर ईश्वरः ॥१-७७-२९॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥

Personal tools