बालकाण्डे प्रथमः सर्गः ॥१-१॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥
तपस्स्वाध्याय निरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥१-१-१॥ कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो धृढव्रतः ॥१-१-२॥ चारित्रेण च को युक्तः सर्वभूतेषु को हितः । विद्वान् कः कः समर्थश्च कश्च एक प्रियदर्शनः ॥१-१-३॥ आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः । कस्य बिभ्यति देवाः च जात रोषस्य संयुगे ॥१-१-४॥ एतत् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे । महर्षे त्वम् समर्थोऽसि ज्ञातुम् एवम् विधम् नरम् ॥१-१-५॥ श्रुत्वा च एतत् त्रिलोकज्ञो वाल्मीकेः नारदो वचः । श्रूयताम् इति च आमंत्र्य प्रहृष्टो वाक्यम् अब्रवीत् ॥१-१-६॥ बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः । मुने वक्ष्ष्यामि अहम् बुद्ध्वा तैः उक्तः श्रूयताम् नरः ॥१-१-७॥ इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः । नियत आत्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥१-१-८॥ बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः । विपुलांसो महाबाहुः कंबु ग्रीवो महाहनुः ॥१-१-९॥ महोरस्को महेष्वासो गूढ जत्रुः अरिन्दमः । आजानु बाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥ समः सम विभक्त अंगः स्निग्ध वर्णः प्रतापवान् । पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः ॥१-१-११॥ धर्मज्ञः सत्यसन्धः च प्रजानाम् च हिते रतः । यशस्वी ज्ञानसंपन्नः शुचिः वश्यः समाधिमान् ॥१-१-१२॥ प्रजापति समः श्रीमान् धता रिपु निषूदनः । रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता॥१-१-१३॥ रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता । वेद वेदाङ्ग तत्त्वज्ञो धनुर् वेदे च निष्ठितः ॥१-१-१४॥ सर्व शास्त्र अर्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् । सर्वलोक प्रियः साधुः अदीनाअत्मा विचक्षणः ॥१-१-१५॥ सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः । अर्यः सर्वसमः च एव सदैव प्रिय दर्शनः ॥१-१-१६॥ स च सर्व गुणोपेतः कौसल्य आनंद वर्धनः । समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव ॥१-१-१७॥ विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः । काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः ॥१-१-१८॥ धनदेन समः त्यागे सत्ये धर्म इव अपरः । तम् एवम् गुण संपन्नम् रामम् सत्य पराक्रमम् ॥१-१-१९॥ ज्येष्टम् श्रेष्ट गुणैः युक्तम् प्रियम् दशरथः सुतम् । प्रकृतीनाम् हितैः युक्तम् प्रकृति प्रिय काम्यया ॥१-१-२०॥ यौव राज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः । तस्य अभिषेक संभारान् दृष्ट्वा भार्या अथ कैकयी ॥१-१-२१॥ पूर्वम् दत्त वरा देवी वरम् एनम् अयाचत । विवासनम् च रामस्य भरतस्य अभिषेचनम् ॥१-१-२२॥ स सत्य वचनात् राजा धर्म पाशेन संयतः । विवासयामास सुतम् रामम् दशरथः प्रियम् ॥१-१-२३॥ स जगाम वनम् वीरः प्रतिज्ञाम् अनुपालयन् । पितुर् वचन निर्देशात् कैकेय्याः प्रिय कारणात् ॥१-१-२४॥ तम् व्रजंतम् प्रियो भ्राता लक्ष्मणः अनुजगाम ह । स्नेहात् विनय संपन्नः सुमित्र आनंद वर्धनः ॥१-१-२५॥ भ्रातरम् दयितो भ्रातुः सौभ्रात्रम् अनु दर्शयन् । रामस्य दयिता भार्या नित्यम् प्राण समा हिता ॥१-१-२६॥ जनकस्य कुले जाता देव मायेव निर्मिता । सर्व लक्षण संपन्ना नारीणाम् उत्तमा वधूः ॥१-१-२७॥ सीताप्य अनुगता रामम् शशिनम् रोहिणी यथा । पौरैः अनुगतो दूरम् पित्रा दशरथेन च ॥१-१-२८॥ शृन्गिबेर पुरे सूतम् गंगा कूले व्यसर्जयत् । गुहम् आसाद्य धर्मात्मा निषाद अधिपतिम् प्रियम् ॥१-१-२९॥ गुहेअन सहितो रामो लक्ष्मणेन च सीतया । ते वनेन वनम् गत्वा नदीः तीर्त्वा बहु उदकाः ॥१-१-३०॥ चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् । रम्यम् आवसथम् कृत्वा रममाणा वने त्रयः ॥१-१-३१॥ देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् । चित्रकूटम् गते रामे पुत्र शोक आतुरः तथा ॥१-१-३२॥ राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् । गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैः द्विजैः ॥१-१-३३॥ नियुज्यमानो राज्याय न इच्छत् राज्यम् महाबलः । स जगाम वनम् वीरो राम पाद प्रसादकः ॥१-१-३४॥ गत्वा तु स महात्मानम् रामम् सत्य पराक्रमम् । अयाचत् भ्रातरम् रामम् आर्य भाव पुरस्कृतः ॥१-१-३५॥ त्वम् एव राजा धर्मज्ञ इति रामम् वचः अब्रवीत् । रामोऽपि परमोदारः सुमुखः सुमहायशाः ॥१-१-३६॥ न च इच्छत् पितुर् आदेशात् राज्यम् रामो महाबलः । पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनः पुनः ॥१-१-३७॥ निवर्तयामास ततो भरतम् भरत अग्रजः । स कामम् अनवाप्य एव राम पादा उपस्पृशन् ॥१-१-३८॥ नन्दि ग्रामे अकरोत् राज्यम् राम आगमन कांक्षया । गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः ॥१-१-३९॥ रामः तु पुनः आलक्ष्य नागरस्य जनस्य च । तत्र आगमनम् एकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥ प्रविश्य तु महाअरण्यम् रामो राजीव लोचनः । विराधम् राक्षसम् हत्वा शरभंगम् ददर्श ह ॥१-१-४१॥ सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य भ्रातरम् तथा । अगस्त्य वचनात् च एव जग्राह ऐन्द्रम् शरासनम् ॥१-१-४२॥ खड्गम् च परम प्रीतः तूणी च अक्षय सायकौ । वसतः तस्य रामस्य वने वन चरैः सह ॥१-१-४३॥ ऋषयः अभ्यागमन् सर्वे वधाय असुर रक्षसाम् । स तेषाम् प्रति शुश्राव राक्षसानाम् तथा वने ॥१-१-४४॥ प्रतिज्ञातः च रामेण वधः संयति रक्षसाम् । ऋषीणाम् अग्नि कल्पानाम् दंडकारण्य वासीनाम् ॥१-१-४५॥ तेन तत्र एव वसता जनस्थान निवासिनी । विरूपिता शूर्पणखा राक्षसी काम रूपिणी ॥१-१-४६॥ ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् । खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम् ॥१-१-४७॥ निजघान रणे रामः तेषाम् च एव पद अनुगान् । वने तस्मिन् निवसता जनस्थान निवासिनाम् ॥१-१-४८॥ रक्षसाम् निहतानि असन् सहस्राणि चतुर् दश । ततो ज्ञाति वधम् श्रुत्वा रावणः क्रोध मूर्छितः ॥१-१-४९॥ सहायम् वरयामास मारीचम् नाम राक्षसम् । वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥ न विरोधो बलवता क्षमो रावण तेन ते । अनादृत्य तु तत् वाक्यम् रावणः काल चोदितः ॥१-१-५१॥ जगाम सह मारीचः तस्य आश्रम पदम् तदा । तेन मायाविना दूरम् अपवाह्य नृप आत्मजौ ॥१-१-५२॥ जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् । गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् ॥१-१-५३॥ राघवः शोक संतप्तो विललाप आकुल इन्द्रियः । ततः तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् ॥१-१-५४॥ मार्गमाणो वने सीताम् राक्षसम् संददर्श ह । कबंधम् नाम रूपेण विकृतम् घोर दर्शनम् ॥१-१-५५॥ तम् निहत्य महाबाहुः ददाह स्वर्गतः च सः । स च अस्य कथयामास शबरीम् धर्म चारिणीम् ॥१-१-५६॥ श्रमणाम् धर्म निपुणाम् अभिगच्छ इति राघव । सः अभ्य गच्छन् महातेजाः शबरीम् शत्रु सूदनः ॥१-१-५७॥ शबर्या पूजितः सम्यक् रामो दशरथ आत्मजः । पंपा तीरे हनुमता संगतो वानरेण ह ॥१-१-५८॥ हनुमत् वचनात् च एव सुग्रीवेण समागतः । सुग्रीवाय च तत् सर्वम् शंसत् रामो महाबलः ॥१-१-५९॥ आदितः तत् यथा वृत्तम् सीतायाः च विशेषतः । सुग्रीवः च अपि तत् सर्वम् श्रुत्वा रामस्य वानरः ॥१-१-६०॥ चकार सख्यम् रामेण प्रीतः च एव अग्नि साक्षिकम् । ततो वानर राजेन वैर अनुकथनम् प्रति ॥१-१-६१॥ रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च । प्रतिज्ञातम् च रामेण तदा वालि वधम् प्रति ॥१-१-६२॥ वालिनः च बलम् तत्र कथयामास वानरः । सुग्रीवः शंकितः च आसीत् नित्यम् वीर्येण राघवे ॥१-१-६३॥ राघवः प्रत्ययार्थम् तु दुंदुभेः कायम् उत्तमम् । दर्शयामास सुग्रीवः महापर्वत संनिभम् ॥१-१-६४॥ उत्स्मयित्वा महाबाहुः प्रेक्ष्य च अस्ति महाबलः । पाद अंगुष्टेन चिक्षेप संपूर्णम् दश योजनम् ॥१-१-६५॥ बिभेद च पुनः सालान् सप्त एकेन महा इषुणा । गिरिम् रसातलम् चैव जनयन् प्रत्ययम् तथा ॥१-१-६६॥ ततः प्रीत मनाः तेन विश्वस्तः स महाकपिः । किष्किंधाम् राम सहितो जगाम च गुहाम् तदा ॥१-१-६७॥ ततः अगर्जत् हरिवरः सुग्रीवो हेम पिंगलः । तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥ अनुमान्य तदा ताराम् सुग्रीवेण समागतः । निजघान च तत्र एनम् शरेण एकेन राघवः ॥१-१-६९॥ ततः सुग्रीव वचनात् हत्वा वालिनम् आहवे । सुग्रीवम् एव तत् राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥ स च सर्वान् समानीय वानरान् वानरर्षभः । दिशः प्रस्थापयामास दिदृक्षुः जनक आत्मजाम् ॥१-१-७१॥ ततो गृध्रस्य वचनात् संपातेः हनुमान् बली । शत योजन विस्तीर्णम् पुप्लुवे लवण अर्णवम् ॥१-१-७२॥ तत्र लंकाम् समासाद्य पुरीम् रावण पालिताम् । ददर्श सीताम् ध्यायन्तीम् अशोक वनिकाम् गताम् ॥१-१-७३॥ निवेदयित्वा अभिज्ञानम् प्रवृत्तिम् च निवेद्य च । समाश्वास्य च वैदेहीम् मर्दयामास तोरणम् ॥१-१-७४॥ पंच सेन अग्रगान् हत्वा सप्त मंत्रि सुतान् अपि । शूरम् अक्षम् च निष्पिष्य ग्रहणम् समुपागमत् ॥१-१-७५॥ अस्त्रेण उन्मुक्तम् आत्मानम् ज्ञात्वा पैतामहात् वरात् । मर्षयन् राक्षसान् वीरो यन्त्रिणः तान् यदृच्छया ॥१-१-७६॥ ततो दग्ध्वा पुरीम् लंकाम् ऋते सीताम् च मैथिलीम् । रामाय प्रियम् आख्यातुम् पुनः आयात् महाकपिः ॥१-१-७७॥ सः अभिगम्य महात्मानम् कृत्वा रामम् प्रदक्षिणम् । न्यवेदयत् अमेयात्मा दृष्टा सीता इति तत्त्वतः ॥१-१-७८॥ ततः सुग्रीव सहितो गत्वा तीरम् महा उदधेः । समुद्रम् क्षोभयामास शरैः आदित्य सन्निभैः ॥१-१-७९॥ दर्शयामास च आत्मानम् समुद्रः सरिताम् पतिः । समुद्र वचनात् च एव नलम् सेतुम् अकारयत् ॥१-१-८०॥ तेन गत्वा पुरीम् लंकाम् हत्वा रावणम् आहवे । रामः सीताम् अनुप्राप्य पराम् व्रीडाम् उपागमत् ॥१-१-८१॥ ताम् उवाच ततः रामः परुषम् जन संसदि । अमृष्यमाणा सा सीता विवेश ज्वलनम् सती ॥१-१-८२॥ ततः अग्नि वचनात् सीताम् ज्ञात्वा विगत कल्मषाम् । कर्मणा तेन महता त्रैलोक्यम् स चराचरम् ॥१-१-८३॥ स देवर्षि गणम् तुष्टम् राघवस्य महात्मनः ॥ बभौ रामः संप्रहृष्टः पूजितः सर्व देवतैः ॥१-१-८४॥ अभ्यषिच्य च लंकायाम् राक्षस इन्द्रम् विभीषणम् । कृतकृत्यः तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥ देवताभ्यो वराम् प्राप्य समुत्थाप्य च वानरान् । अयोध्याम् प्रस्थितः रामः पुष्पकेण सुहृत् वृतः ॥१-१-८६॥ भरद्वाज आश्रमम् गत्वा रामः सत्यपराक्रमः । भरतस्य अंतिकम् रामो हनूमंतम् व्यसर्जयत् ॥१-१-८७॥ पुनः आख्यायिकाम् जल्पन् सुग्रीव सहितः तदा । पुष्पकम् तत् समारूह्य नंदिग्रामम् ययौ तदा ॥१-१-८८॥ नंदिग्रामे जटाम् हित्वा भ्रातृभिः सहितो अनघः । रामः सीताम् अनुप्राप्य राज्यम् पुनः अवाप्तवान् ॥१-१-८९॥ प्रहृष्टो मुदितो लोकः तुष्टः पुष्टः सुधार्मिकः । निरामयो हि अरोगः च दुर्भिक्ष भय वर्जितः ॥१-१-९०॥ न पुत्र मरणम् केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यः च अविधवा नित्यम् भविष्यन्ति पति व्रताः ॥१-१-९१॥ न च अग्निजम् भयम् किन्चित् न अप्सु मज्जन्ति जन्तवः । न वातजम् भयम् किन्चित् न अपि ज्वर कृतम् तथा ॥१-१-९२॥ न च अपि क्षुत् भयम् तत्र न तस्कर भयम् तथा । नगराणि च राष्ट्राणि धन धान्य युतानि च ॥१-१-९३॥ नित्यम् प्रमुदिताः सर्वे यथा कृत युगे तथा । अश्वमेध शतैः इष्ट्वा तथा बहु सुवर्णकैः ॥१-१-९४॥ गवाम् कोट्ययुतम् दत्त्वा विद्वभ्यो विधि पूर्वकम् । असंख्येयम् धनम् दत्त्वा ब्राह्मणेभो महायशाः ॥१-१-९५॥ राज वंशान् शत गुणान् स्थाप इष्यति राघवः । चातुर् वर्ण्यम् च लोके अस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥ दश वर्ष सहस्राणि दश वर्ष शतानि च । रामो राज्यम् उपासित्वा ब्रह्म लोकम् प्रयास्यति ॥१-१-९७॥ इदम् पवित्रम् पापघ्नम् पुण्यम् वेदैः च संमितम् । यः पठेत् राम चरितम् सर्व पापैः प्रमुच्यते ॥१-१-९८॥ एतत् आख्यानम् आयुष्यम् पठन् रामायणम् नरः । स पुत्र पौत्रः स गणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥ पठन् द्विजो वाक् ऋषभत्वम् ईयात् । स्यात् क्षत्रियो भूमि पतित्वम् ईयात् ॥ वणिक् जनः पण्य फलत्वम् ईयात् । जनः च शूद्रो अपि महत्त्वम् ईयात् ॥१-१-१००॥ इति वाल्मीकि रामायणे आदि काव्ये बाल काण्दे प्रथमः सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥
