बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे ।
सरय्वाः च उत्तरे तीरे राज्ञो यज्ञो अभ्यवर्तत ॥१-१४-१॥
ऋष्यशृंगम् पुरस्कृत्य कर्म चक्रुः द्विजर्षभाः ।
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥
कर्म कुर्वंति विधिवत् याजका वेदपारगाः ।
यथा विधि यथा न्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥
प्रवर्ग्यम् शास्त्रतः कृत्वा तथा एव उपसदम् द्विजाः ।
चक्रुः च विधिवत् सर्वम् अधिकम् कर्म शास्त्रतः ॥१-१४-४॥
अभिपूज्य तदा हृष्टाः सर्वे चक्रुः यथा विधि ।
प्रातः सवन पूर्वाणि कर्माणि मुनिपुंगवाः ॥१-१४-५॥
ऐन्द्रश्च विधिवत् दत्तो राजा च अभिषुतोऽनघः ।
मध्यंदिनम् च सवनम् प्रावर्तत यथा क्रमम् ॥१-१४-६॥
तृतीय सवनम् चैव राज्ञोऽस्य सुमहात्मनः ।
चक्रुः ते शाश्त्रतो दृष्ट्वा तथा ब्राह्मण पुंगवाः ॥१-१४-७॥
आह्वान् चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।
ऋष्यशृङ्गाअदौ मन्त्रैः शिक्षाक्षर समन्वितौ ॥१-१४-८॥
गीतिभिः मधुरैः स्निग्धैः मन्त्र आह्वानैः यथार्हतः ।
होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥
न च अहुतं आभूत् तत्र स्खलितम् वा न किंचन ।
दृश्यते ब्रह्मवत् सर्वम् क्षेमयुक्तम् हि चक्रिरे ॥१-१४-१०॥
न तेषु अहस्सु श्रान्तो वा क्षुधितो वा न दृश्यते ।
न अविद्वान् ब्राह्मणः कश्चिन् न अशत अनुचरः तथा ॥१-१४-११॥
ब्राह्मणा भुंजते नित्यम् नाथवन्तः च भुंजते ।
तापसा भुंजते च अपि श्रमणाः चैव भुंजते ॥१-१४-१२॥
वृद्धाः च व्याधिताः च एव स्त्री बालाः तथा एव च ।
अनिशं भुंजमानानां न तृप्तिः उपलभ्यते ॥१-१४-१३॥
दीयताम् दीयताम् अन्नम् वासांसि विविधानि च ।
इति संचोदिताः तत्र तथा चक्रुः अनेकशः ॥१-१४-१४॥
अन्न कूटाः च दृश्यन्ते बहवः पर्वत उपमाः ।
दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥
नाना देशात् अनुप्राप्ताः पुरुषाः स्त्री गणाः तथा ।
अन्न पानैः सुविहिताः तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥
अन्नम् हि विधिवत् स्वादु प्रशन्सन्ति द्विजर्षभाः ।
अहो तृप्ताः स्म भद्रम् ते इति शुश्राव राघवः ॥१-१४-१७॥
स्वलंकृताः च पुरुषा ब्राह्मणान् पर्यवेषयन् ।
उपासन्ते च तान् अन्ये सुमृष्ट मणि कुण्डलाः ॥१-१४-१८॥
कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।
प्राहुः सुवाग्मिनो धीराः परस्पर जिगीषया ॥१-१४-१९॥
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।
सर्व कर्माणि चक्रुः ते यथा शास्त्रं प्रचोदिताः ॥१-१४-२०॥
न अषडङ्ग वित् अत्र आसीत् न अव्रतो न अबहुश्रुतः ।
सदस्यः तस्य वै राज्ञो न अवाद कुशला द्विजाः ॥१-१४-२१॥
प्राप्ते यूपः उच्छ्रये तस्मिन् षड् बैल्वाः खादिराः तथा ।
तावन्तो बिल्व सहिताः पर्णिनः च तथा अपरे ॥१-१४-२२॥
श्लेष्मातकमयः दिष्टो देवदारुमयः तथा ।
द्वावेव तत्र विहितौ बाहु व्यस्त परिग्रहौ ॥१-१४-२३॥
कारिताः सर्व एवैते शास्त्रज्ञैः यज्ञकोविदैः ।
शोभाअर्थम् तस्य यज्ञस्य कांचन अलंकृत अभवन् ॥१-१४-२४॥
एक विंशति यूपाः ते एक विंशत् अरत्नयः ।
वासोभिः एक विंशद्भिः एकैकम् समलंकृताः ॥१-१४-२५॥
विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।
अष्ट आस्रयः सर्व एव श्लक्ष्ण रूप समन्विताः ॥१-१४-२६॥
आच्छादिताः ते वासोभिः पुष्पैः गन्धैः च पूजिताः ।
सप्त ऋषयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥
इष्टकाः च यथा न्यायम् कारिताः च प्रमाणतः ।
चितोऽग्निः ब्राह्मणैः तत्र कुशलैः शिप्लकर्मणि ॥१-१४-२८॥
सचित्यो राज सिंहस्य संचितः कुशलैः द्विजैः ।
गरुडो रुक्मपक्षो वै त्रिगुणो अष्टा दशात्मकः ॥१-१४-२९॥
नियुक्ताः तत्र पशवः तत् तत् उद्दिश्य दैवतम् ।
उरगाः पक्षिणः च एव यथा शास्त्रम् प्रचोदिताः ॥१-१४-३०॥
शामित्रे तु हयः तत्र तथा जलचराः च ये ।
ऋषिभिः सर्वम् एवै तन् नियुक्तम् शास्त्रतः तदा ॥१-१४-३१॥
पशूनाम् त्रिशतम् तत्र यूपेषु नियतम् तदा ।
अश्व रत्नः उत्तमम् तस्य राज्ञो दशरथस्य ह ॥१-१४-३२॥
कौसल्या तम् हयम् तत्र परिचर्य समंततः ।
कृपाणैः विशशासः एनम् त्रिभिः परमया मुदा ॥१-१४-३३॥
पतत्रिणा तदा सार्धम् सुस्थितेन च चेतसा ।
अवसत् रजनीम् एकाम् कौसल्या धर्म काम्यया ॥१-१४-३४॥
होता अध्वर्युः तथ उद्गाता हस्तेन समयोजयन् ।
महिष्या परिवृत्त्या अथ वावाताम् अपराम् तथा ॥१-१४-३५॥
पतत्रिणः तस्य वपाम् उद्धृत्य नियतेइन्द्रियः ।
ऋत्विक् परम संपन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥
धूम गन्धम् वपायाः तु जिघ्रति स्म नराधिपः ।
यथा कालम् यथा न्यायम् निर्णुदन् पापम् आत्मनः ॥१-१४-३७॥
हयस्य यानि च अंगानि तानि सर्वाणि ब्राह्मणाः ।
अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडश ऋत्विजः ॥१-१४-३८॥
प्लक्ष शाखासु यज्ञानाम् अन्येषाम् क्रियते हविः ।
अश्व मेधस्य यज्ञस्य वैतसो भागः इष्यते ॥१-१४-३९॥
त्र्यहोऽश्व मेधः संख्यातः कल्प सूत्रेण ब्राह्मणैः ।
चतुष्टोमम् अहः तस्य प्रथमम् परिकल्पितम् ॥१-१४-४०॥
उक्थ्यम् द्वितीयम् संख्यातम् अतिरात्रम् तथोत्तरम् ।
कारिताः तत्र बहवो विहिताः शास्त्र दर्शनात् ॥१-१४-४१॥
ज्योतिष्टोम आयुषी च एवम् अतिरात्रौ विनिर्मितौ ।
अभिजित् विश्वजित् च एवम् अप्तोर्यामो महाक्रतुः ॥१-१४-४२॥
प्राचीम् होत्रे ददौ राजा दिशम् स्वकुल वर्धनः
अध्वर्यवे प्रतीचीम् तु ब्रह्मणे दक्षिणाम् दिशम् ॥१-१४-४३॥
उद्गात्रे च तथा उदीचीम् दक्षिणैएषा विनिर्मिता ।
अश्वमेधे महायज्ञे स्वयंभु विहिते पुरा ॥१-१४-४४॥
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।
ऋत्विग्भ्यो हि ददौ राजा धराम् ताम् कुलवर्धनः ॥१-१४-४५॥
एवम् दत्त्वा प्रहृष्टो अभूत् श्रीमान् इक्ष्वाकु नन्दन ।
ऋत्विजः तु अब्रुवन् सर्वे राजानम् गत किल्बिषम् ॥१-१४-४६॥
भवान् एव महीम् कृत्स्नाम् एको रक्षितुम् अर्हति ।
न भूम्या कार्यम् अस्माकम् न हि शक्ताः स्म पालने ॥१-१४-४७॥
रताः स्वाध्याय करणे वयम् नित्यम् हि भूमिप ।
निष्क्रयम् किंचित् एव इह प्रयच्छतु भवान् इति ॥१-१४-४८॥
मणि रत्नम् सुवर्णम् वा गावो यद् वा समुद्यतम् ।
तत् प्रयच्छ नरश्रेष्ट धरण्या न प्रयोजनम् ॥१-१४-४९॥
एवम् उक्तो नरपतिः ब्राह्मणैः वेद पारगैः ।
गवाम् शत सहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥
दश कोटि सुवर्णस्य रजतस्य चतुर् गुणम् ।
ऋत्विजः च ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥
ऋष्यशृन्गाय मुनये वसिष्ठाय च धीमते ।
ततः ते न्यायतः कृत्वा प्रविभागम् द्विजोत्तमाः ॥१-१४-५२॥
सुप्रीत मनसः सर्वे प्रत्यूचुः मुदिता भृशम् ।
ततः प्रसर्पकेभ्यस्तु हिरण्यम् सुसमाहितः ॥१-१४-५३॥
जांबूनदम् कोओटि संख्यम् ब्राह्मणेभ्यो ददौ तदा ।
दरिद्राय द्विजाय अथ हस्त आभरणम् उत्तमम् ॥१-१४-५४॥
कस्मै चित् याचमानाय ददौ राघव नंदनः ।
ततः प्रीतेषु विधिवत् द्विजेषु द्विज वत्सलः ॥१-१४-५५॥
प्रणामम् अकरोत् तेषाम् हर्ष व्याकुलित इन्द्रियः ।
तस्य आशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥
उदारस्य नृवीरस्य धरण्याम् पतितस्य च ।
ततः प्रीत मना रजाअ प्राप्य यज्ञम् अनुत्तमम् ॥१-१४-५७॥
पाप अपहम् स्वर् नयनम् दुस्तरम् पार्थिवर्षभैः ।
ततोऽब्रवीत् ऋश्य्शृंगम् राजा दशरथः तदा ॥१-१४-५८॥
कुलस्य वर्धनम् त्वम् तु कर्तुम् अर्हसि सुव्रत ।
तथेति च स राजानम् उवाच द्विजसत्तमः ।
भविष्यन्ति सुता राजन् चत्वारः ते कुलोद्वहाः ॥१-१४-५९॥
स तस्य वाक्यम् मधुरम् निशम्य
प्रणम्य तस्मै प्रयतो नृपेन्द्र ।
जगाम हर्षम् परमम् महात्मा
तम् ऋष्यश्R^ङ्गम् पुनरपि उवाच ॥१-१४-६०॥
इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे चतुर्दशः सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
