किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
अनेक शत साहस्रीम् विषण्णाम् हरि वाहिनीम् ।
जांबवान् समुदीक्ष्य एवम् हनुमंतम् अथ अब्रवीत् ॥४-६६-१॥
वीर वानर लोकस्य सर्व शास्त्र विदाम् वर ।
तूष्णीम् एकांतम् आश्रित्य हनुमन् किम् न जल्पसि ॥४-६६-२॥
हनुमन् हरि राजस्य सुग्रीवस्य समो हि असि ।
राम लक्ष्मणयोः च अपि तेजसा च बलेन च ॥४-६६-३॥
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मान् इव विख्यात उत्तमः सर्व पक्षिणाम् ॥४-६६-४॥
बहुशो हि मया दृष्टः सागरे स महाबलः ।
भुजगान् उद्धरन् पक्षी महावेगो महायशाः ॥४-६६-५॥
पक्षयोः यत् बलम् तस्य तावत् भुज बलम् तव ।
विक्रमः च अपि वेगः च न ते तेन अपहीयते ॥४-६६-६॥
बलम् बुद्धिः च तेजः च सत्त्वम् च हरि सत्तम ।
विशिष्टम् सर्व भूतेषु किम् आत्मानम् न सज्जसे ॥४-६६-७॥
अप्सर अप्सरसाम् श्रेष्ठा विख्याता पुंजिकस्थला ।
अंजना इति परिख्याता पत्नी केसरिणो हरेः ॥४-६६-८॥
विख्याता त्रिषु लोकेषु रूपेणा अप्रतिमा भुवि ।
अभिशापात् अभूत् तात कपित्वे काम रूपिणी ॥४-६६-९॥
दुहिता वानर इन्द्रस्य कुंजरस्य महात्मनः ।
मानुषम् विग्रहम् कृत्वा रूप यौवन शालिनी ॥४-६६-१०॥
विचित्र माल्य आभरणा कदाचित् क्षौम धारिणी ।
अचरत् पर्वतस्य अग्रे प्रावृड् अंबुद सन्निभे ॥४-६६-११॥
तस्या वस्त्रम् विशालाक्ष्याः पीतम् रक्त दशम् शुभम् ।
स्थितायाः पर्वतस्य अग्रे मारुतो अपहरत् शनैः ॥४-६६-१२॥
स ददर्श ततः तस्या वृत्तौ ऊरू सुसंहतौ ।
स्तनौ च पीनौ सहितौ सुजातम् चारु च आननम् ॥४-६६-१३॥
ताम् बलात् आयत श्रोणीम् तनु मध्याम् यशस्विनीम् ।
दृष्ट्वा एव शुभ सर्वान्गीम् पवनः काम मोहितः ॥४-६६-१४॥
स ताम् भुजाभ्याम् दीर्घाभ्याम् पर्यष्वजत मारुतः ।
मन्मथ आविष्ट सर्वान्गो गत आत्मा ताम् अनिन्दिताम् ॥४-६६-१५॥
सा तु तत्र एव संभ्रांता सुवृत्ता वाक्यम् अब्रवीत्
।
एक पत्नी व्रतम् इदम् को नाशयितुम् इच्छति ॥४-६६-१६॥
अंजनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।
न त्वाम् हिंसामि सुश्रोणि मा भूत् ते मनसोइ भयम् ॥४-६६-१७॥
मनसा अस्मि गतो यत् त्वाम् परिष्वज्य यशस्विनि ।
वीर्यवान् बुद्धि संपन्नः पुत्रः तव भविष्यति ॥४-६६-१८॥
महासात्त्वो महातेज महाबल पराक्रमः ।
लंघने प्लवने चैव भविष्यति मया समः ॥४-६६-१९॥
एवम् उक्ता ततः तुष्टा जननी ते महाकपेः ।
गुहायाम् त्वाम् महाबाहो प्रजज्ञे प्लवगर्षभ ॥४-६६-२०॥
अभ्युत्थितम् ततः सूर्यम् बालो दृष्ट्वा महा वने ।
फलंचेतिजिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतोदिवम् - यद्वा -
फलम् च इति जिघृक्षुः त्वम् उत्प्लुत्य अभिउत्पतो दिवम् ॥४-६६-२१॥
शतानि त्रीणि गत्वा अथ योजनानाम् महाकपे ।
तेजसा तस्य निर्धूतो न विषादम् ततो गतः ॥४-६६-२२॥
त्वाम् अपि उपगतम् तूर्णम् अंतरीक्षम् महाकपे ।
क्षिप्तम् इन्द्रेण ते वज्रम् कोप आविष्टेन तेजसा ॥४-६६-२३॥
तदा शैलाग्र शिखरे वामो हनुर् अभज्यत ।
ततो हि नाम धेयम् ते हनुमान् इति कीर्तितम् ॥४-६६-२४॥
ततः त्वाम् निहतम् दृष्ट्वा वायुः गन्ध वहः स्वयम् ।
त्रैलोक्यम् भृश संक्रुद्धो न ववौ वै प्रभंजनः ॥४-६६-२५॥
संभ्रांताः च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।
प्रसादयन्ति संक्रुद्धम् मारुतम् भुवनेश्वराः ॥४-६६-२६॥
प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ ।
अशस्त्र वध्यताम् तात समरे सत्य विक्रम ॥४-६६-२७॥
वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च ।
सहस्र नेत्रः प्रीत आत्मा ददौ ते वरम् उत्तमम् ॥४-६६-२८॥
स्वच्छंदतः च मरणम् तव स्यात् इति वै प्रभो ।
स त्वम् केसरिणः पुत्रः क्षेत्रजो भीम विक्रमः ॥४-६६-२९॥
मारुतस्य औरसः पुत्रः तेजसा च अपि तत् समः ।
त्वम् हि वायु सुतो वत्स प्लवने च अपि तत् समः ॥४-६६-३०॥
वयम् अद्य गत प्राणा भवान् अस्मासु सांप्रतम् ।
दाक्ष्य विक्रम संपन्नः कपि राज इव अपरः ॥४-६६-३१॥
त्रिविक्रमे मया तात स शैल वन कानना ।
त्रिः सप्त कृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥४-६६-३२॥
तथा च ओषधयो अस्माभिः संचिता देव शासनात् ।
निर्मथ्यम् अमृतम् याभिः तदा तदानीम् नो महत् बलम् ॥४-६६-३३॥
स इदानीम् अहम् वृद्धः परिहीन पराक्रमः ।
साम्प्रतम् कालम् अस्माकम् भवान् सर्व गुण अन्वितः ॥४-६६-३४॥
तत् विजृंभस्व विक्रांतः प्लवताम् उत्तमो हि असि ।
त्वत् वीर्यम् द्रष्टु कामा इयम् सर्वा वानर वाहिनी ॥४-६६-३५॥
उत्तिष्ठ हरि शार्दूल लंघयस्व महा अर्णवम् ।
परा हि सर्व भूतानाम् हनुमन् या गतिः तव ॥४-६६-३६॥
विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे ।
विक्रमस्व महावेग विष्णुः त्रीन् विक्रमान् इव ॥४-६६-३७॥
ततः कपीनाम् ऋषभेण चोदितः
प्रतीत वेगः पवन आत्मजः कपिः ।
प्रहर्षयन् ताम् हरि वीर वाहिनीम्
चकार रूपम् महत् आत्मनः तदा ॥४-६६-३८॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
