किष्किन्धाकाण्डे पञ्चषष्ठितमः सर्गः ॥४-६५॥
From Spiritual India
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चषष्ठितमः सर्गः ॥४-६५॥
अथ अंगद वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।
स्वम् स्वम् गतौ समुत्साहम् ऊचुः तत्र यथा क्रमम् ॥४-६५-१॥
गजो गवाक्षो गवयः शरभो गंधमादनः ।
मैन्दः च द्विविदः चैव सुषेणो जांबवान् तथा ॥४-६५-२॥
आबभाषे गजः तत्र प्लवेयम् दश योजनम् ।
गवाक्षो योजनानि आह गमिष्यामि इति विंशतिम् ॥४-६५-३॥
शरभो वानरः तत्र वानरान् तान् उवाच ह ।
त्रिंशत् गमिष्यामि योजनानाम् प्लवंगमाः ॥४-६५-४॥
ऋषरभो वानरः तत्र वानरान् तान् उवाच ह ।
चत्वारिम्शत् गमिष्यामि योजनानाम् न संशयः ॥४-६५-५॥
वानरान् तु महातेजा अब्रवीत् गंधमादनः ।
योजनानाम् गमिष्यामि पंचाशत् तु न संशयः ॥४-६५-६॥
मैन्दः तु वानरः तत्र वानरान् तान् उवाच ह ।
योजनानाम् परम् षष्टिम् अहम् प्लवितुम् उत्सहे ॥४-६५-७॥
ततः तत्र महातेजा द्विविदः प्रत्यभाषत ।
गमिष्यामि न संदेहः सप्ततिम् योजनानि अहम् ॥४-६५-८॥
सुषेणः तु महातेजाः सत्त्ववान् कपि सत्तमः ।
अशीतिम् प्रतिजाने अहम् योजनानाम् पराक्रमे ॥४-६५-९॥
तेषाम् कथयताम् तत्र सर्वान् तान् अनुमान्य च ।
ततो वृद्धतमः तेषाम् जांबवान् प्रत्यभाषत ॥४-६५-१०॥
पूर्वम् अस्माकम् अपि आसीत् कश्चित् गति पराक्रमः ।
ते वयम् वयसः पारम् अनुप्राप्ताः स्म सांप्रतम् ॥४-६५-११॥
किम् तु न एवम् गते शक्यम् इदम् कार्यम् उपेक्षितुम् ।
यद् अर्थम् कपि राजः च रामः च कृत निश्चयौ ॥४-६५-१२॥
सांप्रतम् कालम् अस्माकम् या गतिः ताम् निबोधत ।
नवतिम् योजनानाम् तु गमिष्यामि न संशयः ॥४-६५-१३॥
तान् च सर्वान् हरि श्रेष्ठान् जांबवान् इदम् अब्रवीत् ।
न खलु एतावत् एव आसीत् गमने मे पराक्रमः ॥४-६५-१४॥
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः ।
प्रदक्षिणी कृतः पूर्वम् क्रममाणः त्रिविक्रमः ॥४-६५-१५॥
स इदानीम् अहम् वृद्धः प्लवने मन्दविक्रमः ।
यौवने च तदा आसीत् मे बलम् अप्रतिमम् परम् ॥४-६५-१६॥
संप्रति एतावत् एव अद्य शक्यम् मे गमने स्वतः ।
न एतावता च संसिद्धिः कार्यस्य अस्य भविष्यति ॥४-६५-१७॥
अथ उत्तरम् उदार अर्थम् अब्रवीत् अंगदः तदा ।
अनुमान्य महाप्राज्ञो जांबवंतम् महाकपिम् ॥४-६५-१८॥
अहम् एतत् गमिष्यामि योजनानाम् शतम् महत् ।
निवर्तने तु मे शक्तिः स्यात् न वा इति न निश्चितम् ॥४-६५-१९॥
तम् उवाच हरि श्रेष्ठो जांबवान् वाक्य कोविदः ।
ज्ञायते गमने शक्तिः तव हरि ऋक्ष सत्तम ॥४-६५-२०॥
कामम् शत सहस्रम् वा न हि एष विधिः उच्यते ।
योजनानाम् भवान् शक्तो गन्तुम् प्रतिनिवर्तितुम् ॥४-६५-२१॥
न हि प्रेषयिता तात स्वामी प्रेष्यः कथंचन ।
भवता अयम् जनः सर्वः प्रेष्यः प्लवग सत्तम ॥४-६५-२२॥
भवान् कलत्रम् अस्माकम् स्वामि भावे व्यवस्थितः ।
स्वामी कलत्रम् सैन्यस्य गतिः एषा परंतप ॥४-६५-२३॥
अपि वै एतस्य कार्यस्य भवान् मूलम् अरिम् दम ।
तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥४-६५-२४॥
मूलम् अर्थस्य संरक्ष्यम् एष कार्यविदाम् नयः ।
मूले हि सति सिध्यन्ति गुणाः पुष्प फल उदयः ॥४-६५-२५॥
तद् भवान् अस्य कार्यस्य साधनम् सत्य विक्रमः ।
बुद्धि विक्रम संपन्नो हेतुः अत्र परंतपः ॥४-६५-२६॥
गुरुः च गुरु पुत्रः च त्वम् हि नः कपि सत्तम ।
भवन्तम् आश्रित्य वयम् समर्था हि अर्थ साधने ॥४-६५-२७॥
उक्त वाक्यम् महाप्राज्ञम् जांबवंतम् महाकपिः ।
प्रत्युवाच उत्तरम् वाक्यम् वालि सूनुः अथ अंगदः ॥४-६५-२८॥
यदि न अहम् गमिष्यामि न अन्यो वानर पुंगवः ।
पुनः खलु इदम् अस्माभिः कार्यम् प्रायोपवेशनम् ॥४-६५-२९॥
न हि अकृत्वा हरि पतेः संदेशम् तस्य धीमतः ।
तत्र अपि गत्वा प्राणानाम् न पश्यामि परिरक्षणम् ॥४-६५-३०॥
स हि प्रसादे च अत्यर्थम् कोपे च हरिः ईश्वरः ।
अतीत्य तस्य संदेशम् विनाशो गमने भवेत् ॥४-६५-३१॥
तत् तथा हि अस्य कार्यस्य न भवति अन्यथा गतिः ।
तत् भवान् एव दृष्ट अर्थः संचिंतयितुम् अर्हति ॥४-६५-३२॥
सः अंगदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।
जांबवान् उत्तमम् वाक्यम् प्रोवाच इदम् ततो अंगदम् ॥४-६५-३३॥
तस्य ते वीर कार्यस्य न किंचित् परिहास्यते ।
एष संचोदयामि एनम् यः कार्यम् साधयिष्यति ॥४-६५-३४॥
ततः प्रतीतम् प्लवताम् वरिष्ठम्
एकांतम् आश्रित्य सुखोपविष्टम् ।
संचोदयामास हरि प्रवीरो
हरिप्रवीरम् हनुमंतम् एव ॥४-६५-३५॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे पञ्चषष्ठितमः सर्गः ॥४-६५॥
